अध्याय 110
110.1
गालव उवाच
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी
110.2
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता
दैवतानां हि सांनिध्यमत्र कीर्तितवानसि
110.3
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज
110.4
नारद उवाच
तमाह विनतासूनुरारोहस्वेति वै द्विजम्
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा
110.5
गालव उवाच
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः
110.6
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्
प्रस्थितानामिव समं पश्यामीह गतिं खग
110.7
ससागरवनामुर्वीं सशैलवनकाननाम्
आकर्षन्निव चाभासि पक्षवातेन खेचर
110.8
समीननागनक्रं च खमिवारोप्यते जलम्
वायुना चैव महता पक्षवातेन चानिशम्
110.9
तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान्
नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव
110.10
महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्
110.11
शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन्
न दृश्यते रविस्तात न दिशो न च खं खग
110.12
तम एव तु पश्यामि शरीरं ते न लक्षये
मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज
110.13
शरीरे तु न पश्यामि तव चैवात्मनश्च ह
पदे पदे तु पश्यामि सलिलादग्निमुत्थितम्
110.14
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः
तन्निवर्त महान्कालो गच्छतो विनतात्मज
110.15
न मे प्रयोजनं किंचिद्गमने पन्नगाशन
संनिवर्त महावेग न वेगं विषहामि ते
110.16
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
110.17
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः
110.18
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत्
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्
110.19
नारद उवाच
एवं बहु च दीनं च ब्रुवाणं गालवं तदा
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः
110.20
नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि
न चापि कृत्रिमः कालः कालो हि परमेश्वरः
110.21
किमहं पूर्वमेवेह भवता नाभिचोदितः
उपायोऽत्र महानस्ति येनैतदुपपद्यते
110.22
तदेष ऋषभो नाम पर्वतः सागरोरसि
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव