Utshovऐप डाउनलोड करें

सूक्त 35

35.1

जङ्गिडः। १-५ अङ्गिराः। वनस्पतिः। अनुष्टुप्, ३ पथ्याबृहतीः, ४ शक्वरी निचृत् त्रिष्टुप्।

इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒डं द॑दुः ।
दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ॥१॥

35.2

स नो॑ रक्षतु जङ्गि॒डो ध॑नपा॒लो धने॑व ।
दे॒वा यं च॒क्रुर्ब्रा॑ह्म॒णाः प॑रि॒पाण॑मराति॒हम् ॥२॥

35.3

दु॒र्हार्दः॒ संघो॑रं॒ चक्षुः॑ पाप॒कृत्वा॑न॒माग॑मम्।
तांस्त्वं स॑हस्रचक्षो प्रतीबो॒धेन॑ नाशय परि॒पाणो॑ऽसि जङ्गि॒डः ॥३॥

35.4

परि॑ मा दि॒वः परि॑ मा पृथि॒व्याः पर्य॒न्तरि॑क्षा॒त् परि॑ मा वी॒रुद्भ्यः॑ ।
परि॑ मा भू॒तात् परि॑ मो॒त भव्या॑द् दि॒शोदि॑शो जङ्गि॒डः पा॑त्व॒स्मान् ॥४॥

35.5

य ऋ॒ष्णवो॑ दे॒वकृ॑ता॒ य उ॒तो व॑वृ॒तेऽन्यः ।
सर्वां॒स्तान् वि॒श्वभे॑षजोऽर॒सां ज॑ङ्गि॒डस्क॑रत् ॥५॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.