Utshovऐप डाउनलोड करें

सूक्त 34

34.1

जङ्गिडमणिः। १-१० अङ्गिराः। वनस्पतिः, लिङ्गोक्ताः। अनुष्टुप्।

जा॒ङ्गि॒डोऽसि जङ्गि॒डो रक्षि॑तासि जङ्गि॒डः ।
द्वि॒पाच्चतु॑ष्पाद॒स्माकं॒ सर्वं॑ रक्षतु जङ्गि॒डः ॥१॥

34.2

या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये।
सर्वा॑न् विनक्तु॒ तेज॑सोऽर॒सां ज॑ङ्गि॒डस्क॑रत् ॥२॥

34.3

अ॒र॒सं कृ॒त्रिमं॑ ना॒दम॑र॒साः स॒प्त विस्र॑सः ।
अपे॒तो ज॑ङ्गि॒डाम॑ति॒मिषु॒मस्ते॑व शातय ॥३॥

34.4

कृ॒त्या॒दूष॑ण ए॒वायमथो॑ अराति॒दूष॑णः ।
अथो॒ सह॑स्वां जङ्गि॒डः प्र ण आयूं॑षि तारिषत् ॥४॥

34.5

स ज॑ङ्गि॒डस्य॑ महि॒मा परि॑ णः पातु वि॒श्वतः॑ ।
विष्क॑न्धं॒ येन॑ सा॒सह॒ संस्क॑न्ध॒मोज॒ ओज॑सा ॥५॥

34.6

त्रिष्ट्वा॑ दे॒वा अ॑जनय॒न् निष्ठि॑तं॒ भूम्या॒मधि॑ ।
तमु॒ त्वाङ्गि॑रा॒ इति॑ ब्राह्म॒णाः पू॒र्व्या वि॑दुः ॥६॥

34.7

न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑ ।
विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ॥७॥

34.8

अथो॑पदान भगवो॒ जाङ्गि॒डामि॑तवीर्य ।
पु॒रा त॑ उ॒ग्रा ग्र॑सत॒ उपेन्द्रो॑ वी॒र्यं ददौ ॥८॥

34.9

उ॒ग्र इत् ते॑ वनस्पत॒ इन्द्र॑ ओ॒ज्मान॒माद॑धौ ।
अमी॑वाः॒ सर्वा॑श्चा॒तयं॑ ज॒हि रक्षां॑स्योषधे ॥९॥

34.10

आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्।
त॒क्मानं॑ वि॒श्वशा॑रदमर॒सां ज॑ङ्गि॒डस्क॑रत् ॥१०॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.