Utshovऐप डाउनलोड करें

सर्ग 39

39.1

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। ७.३९.१ ॥

39.2

अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।
भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। ७.३९.२ ॥

39.3

ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। ७.३९.३ ॥

39.4

भरतेन वयं पश्चात्समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ७.३९.४ ॥

39.5

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। ७.३९.५ ॥

39.6

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। ७.३९.६ ॥

39.7

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। ७.३९.७ ॥

39.8

यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। ७.३९.८ ॥

39.9

अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। ७.३९.९ ॥

39.10

मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। ७.३९.१० ॥

39.11

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। ७.३९.११ ॥

39.12

आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। ७.३९.१२ ॥

39.13

प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। ७.३९.१३ ॥

39.14

बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। ७.३९.१४ ॥

39.15

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। ७.३९.१५ ॥

39.16

हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। ७.३९.१६ ॥

39.17

रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। ७.३९.१७ ॥

39.18

सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। ७.३९.१८ ॥

39.19

इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। ७.३९.१९ ॥

39.20

आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। ७.३९.२० ॥

39.21

सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। ७.३९.२१ ॥

39.22

वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। ७.३९.२२ ॥

39.23

मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। ७.३९.२३ ॥

39.24

युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। ७.३९.२४ ॥

39.25

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। ७.३९.२५ ॥

39.26

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ।। ७.३९.२६ ॥

39.27

एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। ७.३९.२७ ॥

39.28

रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। ७.३९.२८ ॥

39.29

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। ७.३९.२९ ॥

39.30

इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। ७.३९.३० ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.