Utshovऐप डाउनलोड करें

सर्ग 127

127.1

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।
भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ।। ६.१२७.१ ।।

127.2

सो ऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।
शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ।। ६.१२७.२ ।।

127.3

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ।। ६.१२७.३ ।।

127.4

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ।। ६.१२७.४ ।।

127.5

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।। ६.१२७.५ ।।

127.6

सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।
दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ।। ६.१२७.६ ।।

127.7

कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ।
। ६.१२७.७ ।।

127.8

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ।। ६.१२७.८ ।।

127.9

सर्वं च सुखदुःखं ते विदितं मम राघव ।
। ६.१२७.९ ।।

127.10

यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।
ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ।। ६.१२७.१० ।।

127.11

रावणेन हृता भार्या बभूवेयमनिन्दिता ।
मारीचदर्शनं चैव सीतोन्मथनमेव च ।। ६.१२७.११ ।।

127.12

कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।
सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ।। ६.१२७.१२ ।।

127.13

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।। ६.१२७.१३ ।।

127.14

यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।
सपुत्रबान्धवामात्यः सबलः सहवाहनः ।। ६.१२७.१४ ।।

127.15

यथा विनिहतः सङ्ख्ये रावणो देवकम्टकः ।
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।। ६.१२७.१५ ।।

127.16

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।
अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।। ६.१२७.१६ ।।

127.17

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।
बाढमित्येव संहृष्टो धीमान् वरमयाचत ।अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।। ६.१२७.१७ ।।

127.18

फलान्यमृतकल्पानि बहूनि विविधानि च ।
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।। ६.१२७.१८ ।।

127.19

तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ।
अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ।। ६.१२७.१९ ।।

127.20

निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ।
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।। ६.१२७.२० ।।

127.21

सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ।
। ६.१२७.२१ ।।

127.22

ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव ।
कामादुपाश्नन्ति सहस्रशस्ते मुदा ऽन्विताः स्वर्गजितो यथैव ।। ६.१२७.२२ ।।

127.23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ।
। १२७ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.