Utshovऐप डाउनलोड करें

सर्ग 123

123.1

प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ।। ६.१२३.१ ।।

123.2

अमोघं दर्शनं राम तवास्माकं परन्तप ।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ।। ६.१२३.२ ।।

123.3

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ।। ६.१२३.३ ।।

123.4

यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर ।
वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ।। ६.१२३.४ ।।

123.5

मम हेतोः पराक्रान्ता ये गता यमसादनम् ।
ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः ।। ६.१२३.५ ।।

123.6

मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।
मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ।। ६.१२३.६ ।।

123.7

त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ।
। ६.१२३.७ ।।

123.8

नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।
गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ।। ६.१२३.८ ।।

123.9

अकाले चापि मुख्यानि मूलानि च फलानि च ।
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ।। ६.१२३.९ ।।

123.10

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ।। ६.१२३.१० ।।

123.11

महानयं वरस्तात त्वयोक्तो रघुनन्दन ।
द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ।। ६.१२३.११ ।।

123.12

समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।
ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ।नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ।। ६.१२३.१२ ।।

123.13

समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ।
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ।। ६.१२३.१३ ।।

123.14

अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ।। ६.१२३.१४ ।।

123.15

सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ।
। ६.१२३.१५ ।।्च सलिलायुताः ।। ६.१२३.१४ ।।

123.16

ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।
बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ।। ६.१२३.१६ ।।

123.17

ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ।
। ६.१२३.१७ ।।

123.18

काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।
ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ।। ६.१२३.१८ ।।

123.19

गच्छायोध्यामितो वीर विसर्जय च वानरान् ।
। ६.१२३.१९ ।।

123.20

मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ।
शत्रुघ्नं च महात्मानं मातऽः सर्वाः परन्तप ।। ६.१२३.२० ।।

123.21

भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।
अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ।। ६.१२३.२१ ।।

123.22

एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।
विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ।। ६.१२३.२२ ।।

123.23

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ।। ६.१२३.२३ ।।

123.24

ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ।
श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ।। ६.१२३.२४ ।।

123.25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ।
। १२३ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.