Utshovऐप डाउनलोड करें

सर्ग 108

108.1

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ २.१०८.१॥

108.2

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ २.१०८.२॥

108.3

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३॥

108.4

तस्मान्माता पिता चेति राम सज्जेतयो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४॥

108.5

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५॥

108.6

एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ २.१०८.६॥

108.7

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ २.१०८.७॥

108.8

समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८॥

108.9

राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९॥

108.10

न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ २.१०८.१०॥

108.11

बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११॥

108.12

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२॥

108.13

अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३॥

108.14

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४॥

108.15

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५॥

108.16

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६॥

108.17

स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ २.१०८.१७॥

108.18

स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ २.१०८.१८ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.