Utshovऐप डाउनलोड करें

सूक्त 46

46.1

६ अयास्य आङ्गिरसः । पवमानः सोमः । गायत्री ।

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒ः कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑ः ॥१॥

46.2

परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती । वा॒युं सोमा॑ असृक्षत ॥२॥

46.3

ए॒ते सोमा॑स॒ इन्द॑व॒ः प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥३॥

46.4

आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ । गोभि॑ः श्रीणीत मत्स॒रम् ॥४॥

46.5

स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥५॥

46.6

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिप॑ः । इन्द्रा॑य मत्स॒रं मद॑म् ॥६॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.