Utshovऐप डाउनलोड करें

सूक्त 41

41.1

६ मेध्यातिथिः काण्वः । पवमानः सोमः । गायत्री ।

प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः । घ्नन्त॑ः कृ॒ष्णामप॒ त्वच॑म् ॥१॥

41.2

सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् । सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥२॥

41.3

शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिण॑ः । चर॑न्ति वि॒द्युतो॑ दि॒वि ॥३॥

41.4

आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् । अश्वा॑व॒द्वाज॑वत्सु॒तः ॥४॥

41.5

स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभि॑ः ॥५॥

41.6

परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वत॑ः । सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥६॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.