Utshovऐप डाउनलोड करें

सूक्त 10

10.1

९ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

प्र स्वा॒नासो॒ रथा॑ इ॒वाऽर्व॑न्तो॒ न श्र॑व॒स्यव॑ः । सोमा॑सो रा॒ये अ॑क्रमुः ॥१॥

10.2

हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः । भरा॑सः का॒रिणा॑मिव ॥२॥

10.3

राजा॑नो॒ न प्रश॑स्तिभि॒ः सोमा॑सो॒ गोभि॑रञ्जते । य॒ज्ञो न स॒प्त धा॒तृभि॑ः ॥३॥

10.4

परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा । सु॒ता अ॑र्षन्ति॒ धार॑या ॥४॥

10.5

आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् । सूरा॒ अण्वं॒ वि त॑न्वते ॥५॥

10.6

अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रव॑ः । वृष्णो॒ हर॑स आ॒यव॑ः ॥६॥

10.7

स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः । प॒दमेक॑स्य॒ पिप्र॑तः ॥७॥

10.8

नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ । क॒वेरप॑त्य॒मा दु॑हे ॥८॥

10.9

अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम् । सूर॑ः पश्यति॒ चक्ष॑सा ॥९॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.