Utshovऐप डाउनलोड करें

सूक्त 59

59.1

१० बन्धु श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः।१-३ निर्ऋतिः,४ निर्ऋतिः सोमश्च, ५-६असुनीतिः, ७ पृथिवी-द्वयन्तरिक्ष-सोम-पूष-पथ्या-स्वस्तयः,८-१० द्यावापृथिवी, १० (पूर्वार्धस्य) इन्द्र- द्यावापृथिव्यः। त्रिष्टुप् , ८ पंक्तिः,९ महापंक्तिः, १० पंक्त्युत्तरा।

प्र ता॒र्यायु॑ः प्रत॒रं नवी॑य॒ः स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।
अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निॠ॑तिर्जिहीताम् ॥१॥

59.2

साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।
ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥२॥

59.3

अ॒भी ष्व१र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।
ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निॠ॑तिर्जिहीताम् ॥३॥

59.4

मो षु ण॑ः सोम मृ॒त्यवे॒ परा॑ दा॒ः पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥४॥

59.5

असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयु॑ः ।
रा॒र॒न्धि न॒ः सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥५॥

59.6

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒ः पुन॑ः प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥६॥

59.7

पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् ।
पुन॑र्न॒ः सोम॑स्त॒न्वं॑ ददातु॒ पुन॑ः पू॒षा प॒थ्यां॒३ या स्व॒स्तिः ॥७॥

59.8

शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥८॥

59.9

अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा ।
क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥९॥

59.10

समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑ः ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥१०॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.