सूक्त 187
187.1
५ आग्नेयो वत्सः। अग्निः। गायत्री।
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥१॥
187.2
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥२॥
187.3
यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥३॥
187.4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥४॥
187.5
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥५॥