सूक्त 188
188.1
३ आग्नेयः श्येनः। जातवेदा अग्निः। गायत्री।
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥१॥
188.2
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑ः । म॒हीमि॑यर्मि सुष्टु॒तिम् ॥२॥
188.3
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥३॥