Utshovऐप डाउनलोड करें

सूक्त 93

93.1

१२ गोतमो राहूगणः। अग्निषोमौ। १-३ अनुष्टुप्, ४-७, १२ त्रिष्टुप्, ८ जगती त्रिष्टुब्वा, ९-११ गायत्री ।

अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।
प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑ः ॥१॥

93.2

अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑ः सप॒र्यति॑ ।
तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥२॥

93.3

अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।
स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥३॥

93.4

अग्नी॑षोमा॒ चेति॒ तद् वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।
अवा॑तिरतं॒ बृस॑यस्य॒ शेषो ऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑ः ॥४॥

93.5

यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥५॥

93.6

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑ः ।
अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥६॥

93.7

अग्नी॑षोमा ह॒विष॒ः प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥७॥

93.8

यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद् दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥८॥

93.9

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑ः । सं दे॑व॒त्रा ब॑भूवथुः ॥९॥

93.10

अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥१०॥

93.11

अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् । आ या॑त॒मुप॑ न॒ः सचा॑ ॥११॥

93.12

अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑ः ।
अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥१२॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.