Utshovऐप डाउनलोड करें

सूक्त 37

37.1

१५ कण्वो घौरः। मरुतः। गायत्री।

क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् । कण्वा॑ अ॒भि प्र गा॑यत ॥१॥

37.2

ये पृष॑तीभिर्ऋ॒ष्टिभि॑ः सा॒कं वाशी॑भिर॒ञ्जिभि॑ः । अजा॑यन्त॒ स्वभा॑नवः ॥२॥

37.3

इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद् वदा॑न् । नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥३॥

37.4

प्र व॒ः शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥४॥

37.5

प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् । जम्भे॒ रस॑स्य वावृधे ॥५॥

37.6

को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः । यत्सी॒मन्तं॒ न धू॑नु॒थ ॥६॥

37.7

नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ । जिही॑त॒ पर्व॑तो गि॒रिः ॥७॥

37.8

येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑ः । भि॒या यामे॑षु॒ रेज॑ते ॥८॥

37.9

स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे । यत् सी॒मनु॑ द्वि॒ता शव॑ः ॥९॥

37.10

उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे॑ष्वत्नत । वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥१०॥

37.11

त्यं चि॑द् घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् । प्र च्या॑वयन्ति॒ याम॑भिः ॥११॥

37.12

मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन । गि॒रीँर॑चुच्यवीतन ॥१२॥

37.13

यद्ध॒ यान्ति॑ म॒रुत॒ः सं ह॑ ब्रुव॒तेऽध्व॒न्ना । शृ॒णोति॒ कश्चि॑देषाम् ॥१३॥

37.14

प्र या॑त॒ शीभ॑मा॒शुभि॒ः सन्ति॒ कण्वे॑षु वो॒ दुव॑ः । तत्रो॒ षु मा॑दयाध्वै ॥१४॥

37.15

अस्ति॒ हि ष्मा॒ मदा॑य व॒ः स्मसि॑ ष्मा व॒यमे॑षाम् । विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥१५॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.