Utshovऐप डाउनलोड करें

सूक्त 187

187.1

११ अगस्त्यो मैत्रावरुणिः । अन्नं। १अनुष्टुब्गर्भा उष्णिक्, ३, ५-७, ११ अनुष्टुप्,११ बृहती वा, २, ४, ८-१० गायत्री।

पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥१॥

187.2

स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥२॥

187.3

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑ः । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥३॥

187.4

तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि वाता॑ इव श्रि॒ताः ॥४॥

187.5

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥५॥

187.6

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् । अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥६॥

187.7

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् । अत्रा॑ चिन्नो मधो पि॒तो ऽरं॑ भ॒क्षाय॑ गम्याः ॥७॥

187.8

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे । वाता॑पे॒ पीव॒ इद् भ॑व ॥८॥

187.9

यत् ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे । वाता॑पे॒ पीव॒ इद् भ॑व ॥९॥

187.10

क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः । वाता॑पे॒ पीव॒ इद् भ॑व ॥१०॥

187.11

तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥११॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.