Utshovऐप डाउनलोड करें

सूक्त 11

11.1

८ जेता माधुच्छन्दसः। इन्द्रः। अनुष्टुप्।

इन्द्रं॒ विश्वा॑ अवीवृधन्त् समु॒द्रव्य॑चसं॒ गिर॑ः ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥१॥

11.2

स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑रा जितम् ॥२॥

11.3

पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तय॑ः ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥३॥

11.4

पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥४॥

11.5

त्वं व॒लस्य॒ गोम॒तो ऽपा॑वरद्रिवो॒ बिल॑म् ।
त्वां दे॒वा अबि॑भ्युषस् तु॒ज्यमा॑नास आविषुः ॥५॥

11.6

तवा॒हं शू॑र रा॒तिभि॒ः प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑ः ॥६॥

11.7

मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स् तेषां॒ श्रवां॒स्युत्ति॑र ॥७॥

11.8

इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.