Utshovऐप डाउनलोड करें

अध्याय 65

65.1

वैशंपायन उवाच
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः

65.2

उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे

65.3

आशंसमानो विजयं तेषां पुत्रवशानुगः
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्

65.4

धृतराष्ट्र उवाच
गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किंचित्
त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः

65.5

त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः
स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति

65.6

संजय उवाच
न त्वां ब्रूयां रहिते जातु किंचि;दसूया हि त्वां प्रसहेत राजन्
आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीमाजमीढ

65.7

तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम्

65.8

वैशंपायन उवाच
ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्

65.9

संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते
सर्वं यावद्वेत्थ तस्मिन्यथाव;द्याथातथ्यं वासुदेवेऽर्जुने च

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.