Utshovऐप डाउनलोड करें

अध्याय 62

62.1

युधिष्ठिर उवाच
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम

62.2

केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत
शंस मे तन्महाबाहो फलं पुण्यकृतं महत्

62.3

दत्तं किं फलवद्राजन्निह लोके परत्र च
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद

62.4

भीष्म उवाच
इममर्थं पुरा पृष्टो नारदो देवदर्शनः
यदुक्तवानसौ तन्मे गदतः शृणु भारत

62.5

नारद उवाच
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्

62.6

अन्नेन सदृशं दानं न भूतं न भविष्यति
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः

62.7

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो

62.8

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च
अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः

62.9

कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता

62.10

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः

62.11

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्
अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्

62.12

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्

62.13

नावमन्येदभिगतं न प्रणुद्यात्कथंचन
अपि श्वपाके शुनि वा न दानं विप्रणश्यति

62.14

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्

62.15

पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्

62.16

कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण न स पापेन युज्यते

62.17

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्
अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते

62.18

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा
भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः

62.19

अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः
भवन्तीहाथ वामुत्र नृपते नात्र संशयः

62.20

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति

62.21

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्

62.22

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा

62.23

सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते
महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत

62.24

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्
मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः

62.25

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि

62.26

प्राणवांश्चापि भवति रूपवांश्च तथा नृप
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः

62.27

अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि
प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते

62.28

ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत्
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत्

62.29

प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत

62.30

अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः

62.31

अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्

62.32

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः

62.33

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा
न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते

62.34

अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम्
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः

62.35

अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम्
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव

62.36

मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः
तच्च मेघगतं वारि शक्रो वर्षति भारत

62.37

आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः
वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः

62.38

तद्यदा मेघतो वारि पतितं भवति क्षितौ
तदा वसुमती देवी स्निग्धा भवति भारत

62.39

ततः सस्यानि रोहन्ति येन वर्तयते जगत्
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः

62.40

संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते
अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह

62.41

एवमन्नं च सूर्यश्च पवनः शुक्रमेव च
एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे

62.42

प्राणान्ददाति भूतानां तेजश्च भरतर्षभ
गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने

62.43

भीष्म उवाच
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः

62.44

दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि

62.45

अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च

62.46

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च

62.47

अनेकशतभौमानि सान्तर्जलवनानि च
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च

62.48

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः

62.49

घोषवन्ति च यानानि युक्तान्यथ सहस्रशः
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च

62.50

क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः
तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव

62.51

एते लोकाः पुण्यकृतामन्नदानां महात्मनाम्
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.