अध्याय 125
125.1
युधिष्ठिर उवाच
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम्
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते
125.2
भीष्म उवाच
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः
पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्
125.3
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा
125.4
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा
125.5
कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता
125.6
स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम्
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे
125.7
रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम्
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः
125.8
मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह
125.9
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः
125.10
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः
125.11
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः
125.12
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान्
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः
125.13
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन्
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः
125.14
संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः
125.15
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः
मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः
125.16
प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः
125.17
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः
125.18
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः
125.19
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम्
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः
125.20
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः
125.21
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम्
बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः
125.22
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम्
न भाति कालेऽभिहितं तेनासि हरिणः कृशः
125.23
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम्
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः
125.24
नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते
कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः
125.25
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम्
मयार्थ इति जानाति तेनासि हरिणः कृशः
125.26
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः
125.27
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः
125.28
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम्
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः
125.29
चिराभिलषितं किंचित्फलमप्राप्तमेव ते
कृतमन्यैरपहृतं तेनासि हरिणः कृशः
125.30
नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः
125.31
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम्
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः
125.32
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान्
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः
125.33
धर्म्यमर्थं च काले च देशे चाभिहितं वचः
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः
125.34
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः
125.35
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः
ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः
125.36
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि
सुहृदामविरोधेन तेनासि हरिणः कृशः
125.37
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान्
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः
125.38
एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत्
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह