Utshovऐप डाउनलोड करें

अध्याय 70

70.1

युधिष्ठिर उवाच
दण्डनीतिश्च राजा च समस्तौ तावुभावपि
कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह

70.2

भीष्म उवाच
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः
शृणु मे शंसतो राजन्यथावदिह भारत

70.3

दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति

70.4

चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये

70.5

सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम्

70.6

कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद्राजा कालस्य कारणम्

70.7

दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते

70.8

भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्
सर्वेषामेव वर्णानां नाधर्मे रमते मनः

70.9

योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
वैदिकानि च कर्माणि भवन्त्यविगुणान्युत

70.10

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च

70.11

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः
विधवा न भवन्त्यत्र नृशंसो नाभिजायते

70.12

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च

70.13

नाधर्मो विद्यते तत्र धर्म एव तु केवलः
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर

70.14

दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते

70.15

अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा

70.16

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते
ततस्तु द्वापरं नाम स कालः संप्रवर्तते

70.17

अशुभस्य तदा अर्धं द्वावंशावनुवर्तते
कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा

70.18

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः
प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः

70.19

कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित्
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः

70.20

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः

70.21

वैदिकानि च कर्माणि भवन्ति विगुणान्युत
ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा

70.22

ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत
व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः

70.23

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति

70.24

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः

70.25

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्

70.26

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते

70.27

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते

70.28

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति

70.29

दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्

70.30

लोकस्य सीमन्तकरी मर्यादा लोकभावनी
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता

70.31

यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ
एष एव परो धर्मो यद्राजा दण्डनीतिमान्

70.32

तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.