Utshovऐप डाउनलोड करें

अध्याय 190

190.1

युधिष्ठिर उवाच
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि

190.2

भीष्म उवाच
शृणुष्वावहितो राजञ्जापकानां गतिं विभो
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ

190.3

यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः
एकदेशक्रियश्चात्र निरयं स निगच्छति

190.4

अवज्ञानेन कुरुते न तुष्यति न शोचति
ईदृशो जापको याति निरयं नात्र संशयः

190.5

अहंकारकृतश्चैव सर्वे निरयगामिनः
परावमानी पुरुषो भविता निरयोपगः

190.6

अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः
यत्राभिध्यां स कुरुते तं वै निरयमृच्छति

190.7

अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते

190.8

रागेण जापको जप्यं कुरुते तत्र मोहितः
यत्रास्य रागः पतति तत्र तत्रोपजायते

190.9

दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति
चलामेव गतिं याति निरयं वाधिगच्छति

190.10

अकृतप्रज्ञको बालो मोहं गच्छति जापकः
स मोहान्निरयं याति तत्र गत्वानुशोचति

190.11

दृढग्राही करोमीति जप्यं जपति जापकः
न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति

190.12

युधिष्ठिर उवाच
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्
सद्भूतो जापकः कस्मात्स शरीरमथाविशेत्

190.13

भीष्म उवाच
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.