अध्याय 13
13.1
सहदेव उवाच
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
13.2
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः
13.3
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः
13.4
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्
13.5
ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ
अदृश्यमानौ भूतानि योधयेतामसंशयम्
13.6
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत
भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते
13.7
अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा
नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः
13.8
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः
पन्था निषेवितः सद्भिः स निषेव्यो विजानता
13.9
लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्
न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम्
13.10
अथ वा वसतो राजन्वने वन्येन जीवतः
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते
13.11
बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत
ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात्
13.12
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः
दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि
13.13
तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम्
तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम