अध्याय 171
171.1
और्व उवाच
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा
सर्वलोकविनाशाय न सा मे वितथा भवेत्
171.2
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्
171.3
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम्
171.4
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता
स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः
171.5
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे
171.6
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत्
171.7
आपूर्णकोशाः किल मे मातरः पितरस्तथा
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्
171.8
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत
यदा तदा दधारेयमूरुणैकेन मां शुभा
171.9
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते
171.10
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु
171.11
जानन्नपि च यः पापं शक्तिमान्न नियच्छति
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते
171.12
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम्
171.13
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन्
भवतां तु वचो नाहमलं समतिवर्तितुम्
171.14
मम चापि भवेदेतदीश्वरस्य सतो महत्
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्
171.15
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति
दहेदेष च मामेव निगृहीतः स्वतेजसा
171.16
भवतां च विजानामि सर्वलोकहितेप्सुताम्
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः
171.17
पितर ऊचुः
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः
171.18
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम
171.19
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः
171.20
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति
न चैव सामरा लोका गमिष्यन्ति पराभवम्
171.21
वसिष्ठ उवाच
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ
171.22
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः
तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ
171.23
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर