अध्याय 161
161.1
गन्धर्व उवाच
अथ तस्यामदृश्यायां नृपतिः काममोहितः
पातनः शत्रुसंघानां पपात धरणीतले
161.2
तस्मिन्निपतिते भूमावथ सा चारुहासिनी
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्
161.3
अथाबभाषे कल्याणी वाचा मधुरया नृपम्
तं कुरूणां कुलकरं कामाभिहतचेतसम्
161.4
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ
161.5
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्
161.6
अथ तामसितापाङ्गीमाबभाषे नराधिपः
मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा
161.7
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्
161.8
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति
161.9
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना
सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने
161.10
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि
चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने
161.11
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने
161.12
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि
161.13
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
161.14
तपत्युवाच
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम
161.15
यथा हि ते मया प्राणाः संगृहीता नरेश्वर
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः
161.16
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः
161.17
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम्
161.18
तस्मादेवंगते काले याचस्व पितरं मम
आदित्यं प्रणिपातेन तपसा नियमेन च
161.19
स चेत्कामयते दातुं तव मामरिमर्दन
भविष्याम्यथ ते राजन्सततं वशवर्तिनी
161.20
अहं हि तपती नाम सावित्र्यवरजा सुता
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ