Utshovऐप डाउनलोड करें

सूक्त 8

8.1

राष्ट्रधारणम्। १-६ अथर्वा। १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम्। त्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप्।

आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न् पृथि॒वीमु॒स्रिया॑भिः ।
अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद् रा॒ष्ट्रं सं॑वे॒श्यंऽ दधातु ॥१॥

8.2

धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑ ।
हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥२॥

8.3

हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।
अ॒यम॒ग्निर्दी॑दायद् दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ॥३॥

8.4

इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।
अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥४॥

8.5

सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि ।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि ॥५॥

8.6

अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ ।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥६॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.