Utshovऐप डाउनलोड करें

सूक्त 7

7.1

यक्ष्मनाशनम्। १-७ भृग्वङ्गिराः। १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम्। अनुष्टुप्, ६ भुरिक्।

ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम्।
स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ॥१॥

7.2

अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्।
विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥२॥

7.3

अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव च्छ॒दिः ।
तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥३॥

7.4

अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के ।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥४॥

7.5

आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥५॥

7.6

यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे।
वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥६॥

7.7

अ॒प॒वा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त।
अपा॒स्मत् सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑च्छतु ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.