सूक्त 25
25.1
कामस्य इषुः। १-६ भृगुः। मित्रावरुणौ, कामेषुः। अनुष्टुप्।
उ॒त्तु॒दस्त्वोत् तु॑दतु॒ मा धृ॑थाः॒ शय॑ने॒ स्वे।
इषुः॒ काम॑स्य॒ या भी॒मा तया॑ विध्यामि त्वा हृ॒दि ॥१॥
25.2
आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्।
तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ॥२॥
25.3
या प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता ।
प्रा॒चीन॑पक्षा॒ व्योऽषा॒ तया॑ विध्यामि त्वा हृ॒दि ॥३॥
25.4
शु॒चा वि॒द्धा व्योऽषया॒ शुष्का॑स्या॒भि स॑र्प मा ।
मृ॒दुर्निम॑न्युः॒ केव॑ली प्रियवा॒दिन्यनु॑व्रता ॥४॥
25.5
आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः ।
यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥५॥
25.6
व्यऽस्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्।
अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥६॥