Utshovऐप डाउनलोड करें

सूक्त 30

30.1

कामिनीमनोऽभिमुखीकरणम्। १-५ प्रजापतिः। १ मनः, २ अश्विनौ, ३-४ औषधिः, ५ दम्पती। अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ भुरिक्।

यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति ।
ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥१॥

30.2

सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः ।
सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ॥२॥

30.3

यत् सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ ।
तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥३॥

30.4

यदन्त॑रं॒ तद् बाह्यं॒ यद् बाह्यं॒ तदन्त॑रम्।
क॒न्याऽनां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥४॥

30.5

एयम॑ग॒न् पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्।
अश्वः॒ कनि॑क्रद॒द् यथा॒ भगे॑ना॒हं स॒हाग॑मम् ॥५॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.