Utshovऐप डाउनलोड करें

सूक्त 47

47.1

रात्रिः। १-९ गोपथः। रात्रिः। अनुष्टुप्, १ पथ्याबृहती, २ पञ्चपदाऽनुष्टुब्गर्भा पराऽतिजगती, ६ पुरस्ताद्बृहती, ७ त्र्यवसाना षट्पदा जगती।

आ रा॑त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः ।
दि॒वः सदां॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ॥१॥

47.2

न यस्याः॑ पा॒रं ददृ॑शे॒ न योयु॑व॒द् विश्व॑म॒स्यां नि वि॑शते॒ यदेज॑ति ।
अरि॑ष्टासस्त उर्वि तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ॥२॥

47.3

ये ते॑ रात्रि नृ॒चक्ष॑सो द्र॒ष्टारो॑ नव॒तीर्नव॑ ।
अ॒शी॒तिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒तिः ॥३॥

47.4

ष॒ष्टिश्च॒ षट् च॒ रेवति पञ्चा॒शत् पञ्च॑ सुम्नयि ।
च॒त्वार॑श्चत्वारिं॒शच्च॒ त्रय॑स्त्रिं॒शच्च॑ वाजिनि ॥४॥

47.5

द्वौ च॑ ते विंश॒तिश्च॑ ते॒ रात्र्येका॑दशाव॒माः ।
तेभि॑र्नो अ॒द्य पा॒युभि॒र्नु पा॑हि दुहितर्दिवः ॥५॥

47.6

रक्षा॒ माकि॑र्नो अ॒धशं॑स ईशत॒ मा नो॑ दुः॒शंस॑ ईशत ।
मा नो॑ अ॒द्य गवां॑ स्ते॒नो मावी॑नां॒ वृक॑ ईशत ॥६॥

47.7

माश्वा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तुधा॒न्यः ।
प॒र॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः ।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥७॥

47.8

अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु ।
हनू॒ वृक॑स्य ज॒म्भया॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ॥८॥

47.9

त्वयि॑ रात्रि वसामसि स्वपि॒ष्याम॑सि जागृ॒हि।
गोभ्यो॑ नः॒ शर्म॑ य॒च्छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ॥९॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.