सूक्त 5
5.1
१-१० यमः। दुःष्वप्ननाशनम्। १-६ (प्रथमा) विराड् गायत्री ५ (प्रथमा) भुरिक्, ६(प्रथमा) स्वराट्, १-६ (द्वितीया) प्राजापत्या गायत्री, १-६ (तृतीय) द्विपदा साम्नी बृहती।
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥१॥
5.2
अन्त॑कोऽसि मृ॒त्युर॑सि ॥२॥
5.3
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥३॥
5.4
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥४॥
5.5
वि॒द्म ते॑ स्वप्न ज॒नित्र॒मभू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥५॥
5.6
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥६॥
5.7
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॒कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥७॥
5.8
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥८॥
5.9
अन्त॑कोऽसि मृ॒त्युर॑सि ॥९॥
5.10
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥१०॥