Utshovऐप डाउनलोड करें

सूक्त 20

20.1

शत्रुनिवारणम्। १-४ अथर्वा। १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः। अनुष्टुप्, त्रिष्टुप्।

अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः ।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या ॥१॥

20.2

यो अ॒द्य सेन्यो॑ व॒धोऽघा॒यूना॑मु॒दीर॑ते ।
यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥२॥

20.3

इ॒तश्च॒ यद॒मुत॑श्च॒ यद् व॒धं व॑रुण यावय ।
वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम् ॥३॥

20.4

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः ।
न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥४॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.