शुक्ल यजुर्वेद (माध्यन्दिन) 6.22
माऽपो मौ॑षधीर्हिᳪसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।
सुमि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२२॥