शुक्ल यजुर्वेद (माध्यन्दिन) 5.43
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ᳪसीः पृथि॒व्या सम्भ॑व ।
अ॒यᳪ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौ॑भगाय ।
अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यᳪ रु॑हेम ॥४३॥