शुक्ल यजुर्वेद (माध्यन्दिन) 5.42
अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः ।
तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ।
ओष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ॥४२॥