शुक्ल यजुर्वेद (माध्यन्दिन) 2.3
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ॥३॥