Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (माध्यन्दिन) 18.25

चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विᳪश॒तिश्च॑ मे विᳪशतिश्च॑ मे॒ चतु॑र्विᳪशतिश्च मे॒ चतु॑र्विᳪश॒तिश्च॑ मे॒ऽष्टावि॑ᳪशतिश्च मे॒ऽष्टावि॑ᳪशतिश्च मे॒ द्वात्रि॑ᳪशच्च मे॒ द्वात्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे॒ षट्त्रि॑ᳪशच्च मे चत्वारि॒ᳪशच्च॑ मे चत्वारि॒ᳪशच्च॑ मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ चतु॑श्चत्वारिᳪशच्च मे॒ऽष्टाच॑त्वारिᳪशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२५॥

पूरा अध्याय