शुक्ल यजुर्वेद (माध्यन्दिन) 14.7
स॒जूरृ॒तुभि॑ः स॒जूर्वि॒धाभि॑ः स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑ः स॒जूर्वि॒धाभि॑ः स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑ः स॒जूर्वि॒धाभि॑ः स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑ः स॒जूर्वि॒धाभि॑ः स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑ः स॒जूर्वि॒धाभि॑ः स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥७॥