शुक्ल यजुर्वेद (माध्यन्दिन) 14.6
शु॒क्रश्च॒ शुचि॑श्च ग्रैष्मा॑वृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒ः कल्प॑न्ताम॒ग्नय॒ः पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः|
ये अ॒ग्नय॒ः सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | ग्रै॒ष्मा॑वृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रुवे सी॑दतम् ॥६॥