शुक्ल यजुर्वेद (काण्व) 5.14
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यो॒ स्यां पृ॑थि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ ।
यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
अनु॑ त्वा दे॒ववी॑तये सि॒ᳪह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व
सि॒ᳪह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥२॥