शुक्ल यजुर्वेद (काण्व) 23.44
४३ (१३९७)
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः। घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ᳪ ह॒विर्होत॑र्यज । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वᳪ सर॑स्वती जु॒षता॑ᳪ ह॒विर्होत॑र्यज । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ॥३॥