शुक्ल यजुर्वेद (काण्व) 23.43
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ᳪ सु॒त्रामा॑णमि॒मे सोमाः॑
सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑ष॒भैः सु॒ताः ।
शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः
शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्रस्थि॑ता वो मधु॒श्च्युत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑
सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪ सो॒म्यं मधु॒ । पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ॥२॥