शुक्ल यजुर्वेद (काण्व) 21.6
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यᳪ सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ।
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ न ज॒ग्मुः।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।
ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑य त्वा॒ बला॑य त्वा ॥५॥