शुक्ल यजुर्वेद (काण्व) 2.46
दि॒वि विष्णु॒र्व्य॑क्रᳪस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।
अ॒न्तरि॑क्षे॒ विष्णु॒र्व्य॑क्रᳪस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।
पृ॒थि॒व्यां विष्णु॒र्व्य॑क्रᳪस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥३॥