Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 19.33

स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे ।
ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे ।
वेदि॑श्च मे ब॒र्हिश्च॑ मे स्वगाका॒रश्च॑ मेऽवभृ॒थश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥

पूरा अध्याय