शुक्ल यजुर्वेद (काण्व) 19.32
आ॒ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मे ।
ऐ॒न्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे ।
सा॒वि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥