Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 15.16

राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राळ॑सि॒ दक्षि॑णा॒ दिक् स॒म्राळ॑सि प्र॒तीची॒दिक्
स्व॒राळ॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑का ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
वार्षि॑का ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।
इ॒षश्चो॒र्जश्च॑ शार॒दा ऋ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि॒ ।
कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒प॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे ।
शा॒र॒दा ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥३॥

पूरा अध्याय