शुक्ल यजुर्वेद (काण्व) 11.3
ये दे॒वा अ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिण॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॑ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तर॒सद॒स्तेभ्यः॒ स्वाहा॑ ।
ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥२॥