शुक्ल यजुर्वेद (काण्व) 11.2
अथ प्रथमोऽध्यायः (अथैकादशोऽध्यायः)
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑
य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ ।
वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो
वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ ।
सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥