सर्ग 46
46.1
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।
ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।।।।
46.2
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।
आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।।।।
46.3
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।।।।
46.4
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।।।।
46.5
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।।।।
46.6
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.६ ।।।।
46.7
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।।।।
46.8
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।
न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।।।।
46.9
त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।।।।
46.10
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।।।।
46.11
तेजसा यशसा चैव विक्रमेण च संयुतम् ।
। ६.४६.११ ।।।।
46.12
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।
उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।।।।
46.13
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।।।।
46.14
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।।।।
46.15
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।।।।
46.16
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।
सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।।।।
46.17
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।।।।
46.18
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।
यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।।।।
46.19
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।।।।
46.20
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।
हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।।।।
46.21
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।।।।
46.22
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।
विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।।।।
46.23
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।।।।
46.24
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।।।।
46.25
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।।।।
46.26
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।
परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।।।।
46.27
विनेदुश्च महानादान् सर्वतो जलदोपमाः ।
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।।।।
46.28
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।।।।
46.29
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।।।।
46.30
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।।।।
46.31
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।
सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।।।।
46.32
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।।।।
46.33
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।।।।
46.34
पर्यवस्थापयात्मानमनाथं मां च वानर ।
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।।।।
46.35
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।।।।
46.36
ततः सलिलमादाय विद्यया परिजप्य च ।
सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।।।।
46.37
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।
अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।।।।
46.38
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।
अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।।।।
46.39
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।।।।
46.40
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।
लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।।।।
46.41
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।
न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।।।।
46.42
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।
यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।।।।
46.43
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।।।।
46.44
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।।।।
46.45
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।
विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।।।।
46.46
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।।।।
46.47
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।।।।
46.48
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।।।।
46.49
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।।।।
46.50
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।
जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ।। ६.४६.५० ।।